Sukta 9.57
स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वंसु षीदति ॥
स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः । श्ये॒नो न वंसु॑ षीदति ॥
sá marmṛjān áyubhir íbho rājéva suvratáḥ | śyénो na váṃsu sīdati ||
He, being polished with the powers of life, strong as a king and faithful to the right law, settles like a falcon upon the desirable treasure.
सः । म॒र्मृजा॒नः । आ॒युऽभिः॑ । इभः॑ । राजा॑ऽइव । सु॒ऽव्र॒तः । श्ये॒नः । न । वंसु॑ । सी॒द॒ति॒ ॥सः । मर्मृजानः । आयुभिः । इभः । राजाइव । सुव्रतः । श्येनः । न । वंसु । सीदति ॥saḥ | marmṛjānaḥ | āyu-bhiḥ | ibhaḥ | rājā-iva | su-vrataḥ | śyenaḥ | na | vaṃsu | sīdati