Sukta 9.57
स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥
स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ । पु॒ना॒न इ॑न्द॒वा भ॑र ॥
sá no víśvā divó vásūto pṛthivyā́ ádhi | punānó indavā́ bhara ||
Bring to us all riches from heaven and from the earth; O Indu, in your purifying, bear them to us.
सः । नः॒ । विश्वा॑ । दि॒वः । वसु॑ । उ॒तो इति॑ । पृ॒थि॒व्याः । अधि॑ । पु॒नानः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥सः । नः । विश्वा । दिवः । वसु । उतो इति । पृथिव्याः । अधि । पुनानः । इन्दो इति । आ । भर ॥saḥ | naḥ | viśvā | divaḥ | vasu | uto iti | pṛthivyāḥ | adhi | punānaḥ | indo iti | ā | bhara