Sukta 9.5
भारती पवमानस्य सरस्वतीळा मही । इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही । इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥
bhā́ratī pávamānasya sárasvatī́ḷā mahī́ | imáṃ no yajñám ā́ gaman tisró devī́ḥ su-péśasaḥ ||
Bhāratī of the purifying Soma, Sarasvatī, and Iḷā the Great—three well-formed goddesses—come to our sacrifice; let these powers of inspired speech and right formation arrive in us.
भार॑ती । पव॑मानस्य । सर॑स्वती । इळा॑ । म॒ही । इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒म॒न् । ति॒स्रः । दे॒वीः । सु॒ऽपेश॑सः ॥भारती । पवमानस्य । सरस्वती । इळा । मही । इमम् । नः । यज्ञम् । आ । गमन् । तिस्रः । देवीः । सुपेशसः ॥bhāratī | pavamānasya | sarasvatī | iḷā | mahī | imam | naḥ | yajñam | ā | gaman | tisraḥ | devīḥ | su-peśasaḥ