Sukta 9.5
ईळेन्यः पवमानो रयिर्वि राजति द्युमान् । मधोर्धाराभिरोजसा ॥
ई॒ळेन्य॒: पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् । मधो॒र्धारा॑भि॒रोज॑सा ॥
īḷényāḥ pávamāno rayír ví rājati dyumān | mádhor dhā́rābhir ójasā ||
Worthy of aspiration, the self-purifying Soma shines out as the plenitude of being, full of luminous mind; by the streams of sweetness he manifests with force.
ई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् । मधोः॑ । धारा॑भिः । ओज॑सा ॥ईळेन्यः । पवमानः । रयिः । वि । राजति । द्युमान् । मधोः । धाराभिः । ओजसा ॥īḷenyaḥ | pavamānaḥ | rayiḥ | vi | rājati | dyu-mān | madhoḥ | dhārābhiḥ | ojasā