Sukta 9.5
बर्हिः प्राचीनमोजसा पवमानः स्तृणन्हरिः । देवेषु देव ईयते ॥
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरि॑: । दे॒वेषु॑ दे॒व ई॑यते ॥
barhíḥ prācī́nam ójasā pávamānaḥ stṛṇán hárīḥ | devéṣu devá īyate ||
The self-purifying Soma spreads the ancient sacred seat by his force; the golden-green steed of energy is laid out, and the god moves toward the gods—toward the higher powers within.
ब॒र्हिः । प्रा॒चीन॑म् । ओज॑सा । पव॑मानः । स्तृ॒णन् । हरिः॑ । दे॒वेषु॑ । दे॒वः । ई॒य॒ते॒ ॥बर्हिः । प्राचीनम् । ओजसा । पवमानः । स्तृणन् । हरिः । देवेषु । देवः । ईयते ॥barhiḥ | prācīnam | ojasā | pavamānaḥ | stṛṇan | hariḥ | deveṣu | devaḥ | īyate