Sukta 9.5
तनूनपात्पवमानः शृङ्गे शिशानो अर्षति । अन्तरिक्षेण रारजत् ॥
तनू॒नपा॒त्पव॑मान॒: शृङ्गे॒ शिशा॑नो अर्षति । अ॒न्तरि॑क्षेण॒ रार॑जत् ॥
tanūnapāt pávamānaḥ śṛ́ṅge śíśāno arṣati | antárikṣeṇa rā́rajat ||
The self-purifying Soma, the ‘Son of the Body’, surges forward sharpening his horned power; he moves in the mid-region and makes it blaze with his shining.
तनू॒नपा॑त् । पव॑मानः । शृङ्गे॒ इति॑ । शिशा॑नः । अ॒र्ष॒ति॒ । अ॒न्तरि॑क्षेण । रार॑जत् ॥तनूनपात् । पवमानः । शृङ्गे इति । शिशानः । अर्षति । अन्तरिक्षेण । रारजत् ॥tanūnapāt | pavamānaḥ | śṛṅgeiti | śiśānaḥ | arṣati | antarikṣeṇa | rārajat