Sukta 9.46
परिष्कृतास इन्दवो योषेव पित्र्यावती । वायुं सोमा असृक्षत ॥
परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती । वा॒युं सोमा॑ असृक्षत ॥
paríṣkṛtāsa índavo yóṣeva pitŕyāvatī | vāyúṁ sómā asṛkṣata ||
Made perfectly ready, the bright drops—like a maiden rich in ancestral force—have released themselves toward Vāyu, the moving Breath.
परि॑ऽकृतासः । इन्द॑वः । योषा॑ऽइव । पित्र्य॑ऽवती । वा॒युम् । सोमाः॑ । अ॒सृ॒क्ष॒त॒ ॥परिकृतासः । इन्दवः । योषाइव । पित्र्यवती । वायुम् । सोमाः । असृक्षत ॥pari-kṛtāsaḥ | indavaḥ | yoṣā-iva | pitrya-vatī | vāyum | somāḥ | asṛkṣata