Sukta 9.46
असृग्रन्देववीतयेऽत्यासः कृत्व्या इव । क्षरन्तः पर्वतावृधः ॥
असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒: कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑: ॥
asṛ́gran devá-vītaye átyāsaḥ kṛtvyā́ iva | kṣárantaḥ parvatā-vṛ́dhaḥ ||
They have surged forth for the gods’ enjoyment—these swift ones—like active energies set to their craft; flowing out, they increase the mountains (the firm heights of the being).
असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव । क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥असृग्रन् । देववीतये । अत्यासः । कृत्व्याःइव । क्षरन्तः । पर्वतवृधः ॥asṛgran | deva-vītaye | atyāsaḥ | kṛtvyāḥ-iva | kṣarantaḥ | parvata-vṛdhaḥ