Sukta 9.46
एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः । इन्द्रं वर्धन्ति कर्मभिः ॥
ए॒ते सोमा॑स॒ इन्द॑व॒: प्रय॑स्वन्तश्च॒मू सु॒ताः । इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥
eté sómāsa índavaḥ práyasvantaś camū́ sutā́ḥ | índraṁ vardhanti kármabhiḥ ||
These Soma-drops, rich in offering-substance, pressed into the vessel, increase Indra by the works (of the sacrifice and the inner discipline).
ए॒ते । सोमा॑सः । इन्द॑वः । प्रय॑स्वन्तः । च॒मू इति॑ । सु॒ताः । इन्द्र॑म् । व॒र्ध॒न्ति॒ । कर्म॑ऽभिः ॥एते । सोमासः । इन्दवः । प्रयस्वन्तः । चमू इति । सुताः । इन्द्रम् । वर्धन्ति । कर्मभिः ॥ete | somāsaḥ | indavaḥ | prayasvantaḥ | camū iti | sutāḥ | indram | vardhanti | karma-bhiḥ