Sukta 9.45
अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि । इन्दुर्देवेषु पत्यते ॥
अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि । इन्दु॑र्दे॒वेषु॑ पत्यते ॥
áty ū̀ pavítram akramīd vājī́ dhúraṃ ná yā́mani | índur devéṣu patyate ||
He has overstepped the filter; like a strong racer taking the yoke on the course, Indu presses forward and wins lordship among the gods—establishing mastery of the purified delight in the luminous powers.
अति॑ । ऊँ॒ इति॑ । प॒वित्र॑म् । अ॒क्र॒मी॒त् । वा॒जी । धुर॑म् । न । याम॑नि । इन्दुः॑ । दे॒वेषु॑ । प॒त्य॒ते॒ ॥अति । ऊँ इति । पवित्रम् । अक्रमीत् । वाजी । धुरम् । न । यामनि । इन्दुः । देवेषु । पत्यते ॥ati | oṃ iti | pavitram | akramīt | vājī | dhuram | na | yāmani | induḥ | deveṣu | patyate