Sukta 9.45
उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् । वि नो राये दुरो वृधि ॥
उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् । वि नो॑ रा॒ये दुरो॑ वृधि ॥
utá tvām aruṇáṃ vayáṃ góbhir añjmó mádāya kám | ví no rāyé dúro vṛdhi ||
And you, the ruddy-flaming one, we anoint with rays of light for the ecstasy; open out for us the doors of spiritual richness, widen the passages by which the plenty enters.
उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः॑ । अ॒ञ्ज्मः॒ । मदा॑य । कम् । वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥उत । त्वाम् । अरुणम् । वयम् । गोभिः । अञ्ज्मः । मदाय । कम् । वि । नः । राये । दुरः । वृधि ॥uta | tvām | aruṇam | vayam | gobhiḥ | añjmaḥ | madāya | kam | vi | naḥ | rāye | duraḥ | vṛdhi