Sukta 9.44
स नो भगाय वायवे विप्रवीरः सदावृधः । सोमो देवेष्वा यमत् ॥
स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो॑ दे॒वेष्वा य॑मत् ॥
sá no bhágāya vāyáve víprāvīraḥ sadā́vṛdhaḥ | sómo devéṣv ā́ yamat ||
May Soma, ever-growing and rich in inspired energies, come for us toward Bhaga and Vāyu; may he yoke himself into the divine powers, so that fortune and the life-breath of the gods may move in our being.
सः । नः॒ । भगा॑य । वा॒यवे॑ । विप्र॑ऽवीरः । स॒दाऽवृ॑धः । सोमः॑ । दे॒वेषु । आ । य॒म॒त् ॥सः । नः । भगाय । वायवे । विप्रवीरः । सदावृधः । सोमः । देवेषु । आ । यमत् ॥saḥ | naḥ | bhagāya | vāyave | vipra-vīraḥ | sadāvṛdhaḥ | somaḥ | deveṣu | ā | yamat