Sukta 9.44
अयं देवेषु जागृविः सुत एति पवित्र आ । सोमो याति विचर्षणिः ॥
अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ । सोमो॑ याति॒ विच॑र्षणिः ॥
ayáṃ devéṣu jā́gṛviḥ sutá éti pavítrá ā́ | sómo yāti vícarṣaṇiḥ ||
This Soma, wakeful among the gods, pressed out, comes to the filter; he moves on as the wide-ruling power, ordering the many activities of our nature toward the light.
अ॒यम् । दे॒वेषु॑ । जागृ॑विः । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ । सोमः॑ । या॒ति॒ । विच॑र्षणिः ॥अयम् । देवेषु । जागृविः । सुतः । एति । पवित्रे । आ । सोमः । याति । विचर्षणिः ॥ayam | deveṣu | jāgṛviḥ | sutaḥ | eti | pavitre | ā | somaḥ | yāti | vi-carṣaṇiḥ