Sukta 9.44
मती जुष्टो धिया हितः सोमो हिन्वे परावति । विप्रस्य धारया कविः ॥
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ । विप्र॑स्य॒ धार॑या क॒विः ॥
matī́ juṣṭó dhiyā́ hitáḥ sómo hinve parāváti | víprasya dhā́rayā kavíḥ ||
Soma, the seer-force, cherished by our forms of thought and placed by the illumined intelligence, is urged onward in the far-extended field; by the streaming current he increases the inspired one’s flow of vision.
म॒ती । जु॒ष्टः । धि॒या । हि॒तः । सोमः॑ । हि॒न्वे॒ । प॒रा॒ऽवति॑ । विप्र॑स्य । धार॑या । क॒विः ॥मती । जुष्टः । धिया । हितः । सोमः । हिन्वे । परावति । विप्रस्य । धारया । कविः ॥matī | juṣṭaḥ | dhiyā | hitaḥ | somaḥ | hinve | parāvati | viprasya | dhārayā | kaviḥ