Sukta 9.43
इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ । यदक्षारति देवयुः ॥
इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥
índur átyo ná vā́ja-sṛt kánikranti pavítra ā́ | yád ákṣārati deva-yúḥ ||
Indu, like a racing steed that brings the plenitude, keeps leaping into the purifier, when the god-seeking one streams forth and passes beyond.
इन्दुः॑ । अत्यः॑ । न । वा॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्रे॑ । आ । यत् । अक्षाः॑ । अति॑ । दे॒व॒ऽयुः ॥इन्दुः । अत्यः । न । वाजसृत् । कनिक्रन्ति । पवित्रे । आ । यत् । अक्षाः । अति । देवयुः ॥induḥ | atyaḥ | na | vāja-sṛt | kanikranti | pavitre | ā | yat | akṣāḥ | ati | deva-yuḥ