Sukta 9.43
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । विप्रस्य मेध्यातिथेः ॥
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या॑तिथेः ॥
punānó yā́ti haryatáḥ sómo gī́rbhiḥ pári-kṛtaḥ | víprasya médhya-atitheḥ ||
Self-purifying, the golden Soma goes forward, made perfectly ready by hymns, in the work of the seer who is the fit guest of the sacrifice and the intelligence.
पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः । विप्र॑स्य । मेध्य॑ऽअतिथेः ॥पुनानः । याति । हर्यतः । सोमः । गीःभिः । परिकृतः । विप्रस्य । मेध्यअतिथेः ॥punānaḥ | yāti | haryataḥ | somaḥ | gīḥ-bhiḥ | pari-kṛtaḥ | viprasya | medhya-atitheḥ