Sukta 9.43
तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । इन्दुमिन्द्राय पीतये ॥
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिर॑: शुम्भन्ति पू॒र्वथा॑ । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
táṃ no víśvā avasyúvo gíraḥ śúmbhanti pū́rva-thā́ | índum índrā́ya pītáye ||
Him for us, all our seeking inspirations adorn as in the ancient way—this bright drop (Indu) for Indra to drink, that the lord of luminous power may grow in us.
तम् । नः॒ । विश्वाः॑ । अ॒व॒स्युवः॑ । गिरः॑ । शु॒म्भ॒न्ति॒ । पू॒र्वऽथा॑ । इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥तम् । नः । विश्वाः । अवस्युवः । गिरः । शुम्भन्ति । पूर्वथा । इन्दुम् । इन्द्राय । पीतये ॥tam | naḥ | viśvāḥ | avasyuvaḥ | giraḥ | śumbhanti | pūrva-thā | indum | indrāya | pītaye