Sukta 9.43
यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः । तं गीर्भिर्वासयामसि ॥
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥
yó átyaḥ-iva mṛ́jyate góbhir mádāya haryatáḥ | táṃ gī́rbhir vāsayāmasi ||
He who is cleansed like a swift steed by the rays of illumination for the ecstasy, the golden-hued one—him we clothe and make radiant with our inspired hymns.
यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः । तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥यः । अत्यःइव । मृज्यते । गोभिः । मदाय । हर्यतः । तम् । गीःभिः । वासयामसि ॥yaḥ | atyaḥ-iva | mṛjyate | gobhiḥ | madāya | haryataḥ | tam | gīḥ-bhiḥ | vāsayāmasi