Sukta 9.42
अभि विश्वानि वार्याभि देवाँ ऋतावृधः । सोमः पुनानो अर्षति ॥
अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृध॑: । सोम॑: पुना॒नो अ॑र्षति ॥
abhí víśvāni vā́ryā́bhí devā́n ṛtā-vṛ́dhaḥ | sómaḥ punānó arṣati ||
Over all desirable fulfillments, over the gods who grow by the Truth, Soma—self-purifying—streams onward.
अ॒भि । विश्वा॑नि । वार्या॑ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥अभि । विश्वानि । वार्या । अभि । देवान् । ऋतवृधः । सोमः । पुनानः । अर्षति ॥abhi | viśvāni | vāryā | abhi | devān | ṛta-vṛdhaḥ | somaḥ | punānaḥ | arṣati