Sukta 9.42
गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः । पवस्व बृहतीरिषः ॥
गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः । पव॑स्व बृह॒तीरिष॑: ॥
góman naḥ soma vī́ra-vad áśvā-vad vā́ja-vat sutáḥ | páv asva bṛhatī́r íṣaḥ ||
O Soma, pressed out, purify yourself for us as fullness of luminous riches—rich in rays of knowledge, rich in heroic energy, rich in swift powers, rich in plenitude of force; pour out the vast impulsions of nourishment.
गोऽम॑त् । नः॒ । सो॒म॒ । वी॒रऽव॑त् । अश्व॑वत् । वाज॑ऽवत् । सु॒तः । पव॑स्व । बृह॒तीः । इषः॑ ॥गोमत् । नः । सोम । वीरवत् । अश्ववत् । वाजवत् । सुतः । पवस्व । बृहतीः । इषः ॥go-mat | naḥ | soma | vīra-vat | aśva-vat | vāja-vat | sutaḥ | pavasva | bṛhatīḥ | iṣaḥ