Sukta 9.42
वावृधानाय तूर्वये पवन्ते वाजसातये । सोमाः सहस्रपाजसः ॥
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये । सोमा॑: स॒हस्र॑पाजसः ॥
vāvṛdhānā́ya tū́rvaye páʋante vā́ja-sātaye | sómāḥ sahásra-pājasaḥ ||
For the ever-growing swift force within, the Soma-streams purify themselves, moving toward the winning of plenitude; these are the Somas of a thousand powers of light.
व॒वृ॒धा॒नाय॑ । तूर्व॑ये । पव॑न्ते । वाज॑ऽसातये । सोमाः॑ । स॒हस्र॑ऽपाजसः ॥ववृधानाय । तूर्वये । पवन्ते । वाजसातये । सोमाः । सहस्रपाजसः ॥vavṛdhānāya | tūrvaye | pavante | vāja-sātaye | somāḥ | sahasra-pājasaḥ