Sukta 9.42
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । धारया पवते सुतः ॥
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥
eṣá pratnéna mánmanā devó devébhyaḥ pári | dhā́rayā pavate sutáḥ ||
This one, with the ancient intention, a god moving around the gods, flows in a sustaining stream—Soma pressed out—circling and serving the divine powers within us.
ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ । धार॑या । प॒व॒ते॒ । सु॒तः ॥एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । धारया । पवते । सुतः ॥eṣaḥ | pratnena | manmanā | devaḥ | devebhyaḥ | pari | dhārayā | pavate | sutaḥ