Sukta 9.42
जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् । वसानो गा अपो हरिः ॥
ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् । वसा॑नो॒ गा अ॒पो हरि॑: ॥
jánayan rocanā́ divó jánayan apsú sū́ryam | vásāno gā́ apó háriḥ ||
Bringing to birth the luminous spaces of heaven, bringing to birth the Sun in the waters, the tawny one moves clothed in the rays (cows) and the waters—illumination wrapped in life-streams.
ज॒नय॑न् । रो॒च॒ना । दि॒वः । ज॒नय॑न् । अ॒प्ऽसु । सूर्य॑म् । वसा॑नः । गाः । अ॒पः । हरिः॑ ॥जनयन् । रोचना । दिवः । जनयन् । अप्सु । सूर्यम् । वसानः । गाः । अपः । हरिः ॥janayan | rocanā | divaḥ | janayan | ap-su | sūryam | vasānaḥ | gāḥ | apaḥ | hariḥ