Sukta 9.39
अयं स यो दिवस्परि रघुयामा पवित्र आ । सिन्धोरूर्मा व्यक्षरत् ॥
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ । सिन्धो॑रू॒र्मा व्यक्ष॑रत् ॥
ayáṃ sá yó divás pári raghu-yā́mā pavítra ā́ | síndhor ūrmā́ vy àkṣarat ||
This is he who, swift in his courses, comes from beyond heaven to the purifier; like a wave of the great river he pours himself out and spreads.
अ॒यम् । सः । यः । दि॒वः । परि॑ । र॒घु॒ऽयामा॑ । प॒वित्रे॑ । आ । सिन्धोः॑ । ऊ॒र्मा । वि । अक्ष॑रत् ॥अयम् । सः । यः । दिवः । परि । रघुयामा । पवित्रे । आ । सिन्धोः । ऊर्मा । वि । अक्षरत् ॥ayam | saḥ | yaḥ | divaḥ | pari | raghu-yāmā | pavitre | ā | sindhoḥ | ūrmā | vi | akṣarat