Sukta 9.37
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥
स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः । सोमो॒ वाज॑मिवासरत् ॥
sa vṛtra-hā vṛṣā suto varivo-vid adābhyaḥ | somo vājam ivāsarat ||
He, the slayer of Vṛtra, the strong Bull pressed out, the finder of the wide path, the invincible Soma, has streamed forth like plenitude itself.
सः । वृ॒त्र॒ऽहा । वृषा॑ । सु॒तः । व॒रि॒वः॒ऽवित् । अदा॑भ्यः । सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ॥सः । वृत्रहा । वृषा । सुतः । वरिवःवित् । अदाभ्यः । सोमः । वाजम्इव । असरत् ॥saḥ | vṛtra-hā | vṛṣā | sutaḥ | varivaḥ-vit | adābhyaḥ | somaḥ | vājam-iva | asarat