Sukta 9.37
स त्रितस्याधि सानवि पवमानो अरोचयत् । जामिभिः सूर्यं सह ॥
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् । जा॒मिभि॒: सूर्यं॑ स॒ह ॥
sa tritasya adhi sānavi pavamāno arocayat | jāmi-bhiḥ sūryaṃ saha ||
He, the purifying Soma, kindled the shining forth upon the ridge of Trita; with the kindred powers he brought the Sun into manifestation.
सः । त्रि॒तस्य॑ । अधि॑ । सान॑वि । पव॑मानः । अ॒रो॒च॒य॒त् । जा॒मिऽभिः॑ । सूर्य॑म् । स॒ह ॥सः । त्रितस्य । अधि । सानवि । पवमानः । अरोचयत् । जामिभिः । सूर्यम् । सह ॥saḥ | tritasya | adhi | sānavi | pavamānaḥ | arocayat | jāmi-bhiḥ | sūryam | saha