Sukta 9.37
स देवः कविनेषितोऽभि द्रोणानि धावति । इन्दुरिन्द्राय मंहना ॥
स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति । इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥
sa devaḥ kavinā iṣito 'bhi droṇāni dhāvati | indur indrāya maṃhanā ||
He, the god, urged on by the Seer-wisdom, runs toward the vats; the bright drop hastens for Indra, bearing the power of increase.
सः । दे॒वः । क॒विना॑ । इ॒षि॒तः । अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ । इन्दुः॑ । इन्द्रा॑य । मं॒हना॑ ॥सः । देवः । कविना । इषितः । अभि । द्रोणानि । धावति । इन्दुः । इन्द्राय । मंहना ॥saḥ | devaḥ | kavinā | iṣitaḥ | abhi | droṇāni | dhāvati | induḥ | indrāya | maṃhanā