Sukta 9.37
स वाजी रोचना दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥
स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति । र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
sa vājī rocanā divaḥ pavamāno vi dhāvati | rakṣo-hā vāram avyayam ||
That Soma, a bearer of plenitude-force, as he purifies himself, runs out through the luminous realms of heaven; a slayer of the powers of obscurity, he enters the imperishable enclosure (of the Truth).
सः । वा॒जी । रो॒च॒ना । दि॒वः । पव॑मानः । वि । धा॒व॒ति॒ । र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥सः । वाजी । रोचना । दिवः । पवमानः । वि । धावति । रक्षःहा । वारम् । अव्ययम् ॥saḥ | vājī | rocanā | divaḥ | pavamānaḥ | vi | dhāvati | rakṣaḥ-hā | vāram | avyayam