Sukta 9.37
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । अभि योनिं कनिक्रदत् ॥
स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥
sá pavítre vi-cakṣaṇó hárir arṣati dharṇasíḥ | abhí yóniṃ kánikradat ||
He, discerning in the filter, the tawny one, rushes on with a sustaining force; crying out, he moves toward his womb—his source and settling-place.
सः । प॒वित्रे॑ । वि॒ऽच॒क्ष॒णः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । अ॒भि । योनि॑म् । कनि॑क्रदत् ॥सः । पवित्रे । विचक्षणः । हरिः । अर्षति । धर्णसिः । अभि । योनिम् । कनिक्रदत् ॥saḥ | pavitre | vi-cakṣaṇaḥ | hariḥ | arṣati | dharṇasiḥ | abhi | yonim | kanikradat