Sukta 9.37
स सुतः पीतये वृषा सोमः पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः ॥
स सु॒तः पी॒तये॒ वृषा॒ सोम॑: प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥
sá sutáḥ pītáye vṛ́ṣā sómaḥ pavítre arṣati | ví-ghnan rákṣāṃsi deva-yúḥ ||
Pressed for the drinking, the strong Soma rushes through the filter, god-seeking; he strikes apart the powers of obstruction and the forces of darkness.
सः । सु॒तः । पी॒तये॑ । वृषा॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ । वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥सः । सुतः । पीतये । वृषा । सोमः । पवित्रे । अर्षति । विघ्नन् । रक्षांसि । देवयुः ॥saḥ | sutaḥ | pītaye | vṛṣā | somaḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ