Sukta 9.35
प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः । व्रता विदान आयुधा ॥
प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषि॑: । व्र॒ता वि॑दा॒न आयु॑धा ॥
prá vā́jam índur iṣyati sísāsan vāja-sā́ ṛ́ṣiḥ | vratā́ vidāná ā́yudhā ||
Indu presses forward toward the plenitude of force (vāja); desiring that strength, the seer—winner of vāja—knowing the laws, arms himself for the work.
प्र । वाज॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । सिसा॑सन् । वा॒ज॒ऽसाः । ऋषिः॑ । व्र॒ता । वि॒दा॒नः । आयु॑धा ॥प्र । वाजम् । इन्दुः । इष्यति । सिसासन् । वाजसाः । ऋषिः । व्रता । विदानः । आयुधा ॥pra | vājam | induḥ | iṣyati | sisāsan | vāja-sāḥ | ṛṣiḥ | vratā | vidānaḥ | āyudhā