Sukta 9.35
त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः । क्षरा णो अभि वार्यम् ॥
त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः । क्षरा॑ णो अ॒भि वार्य॑म् ॥
tváyā vīréṇa vīrá-vaḥ abhí syāma pṛtanyatáḥ | kṣárā no abhí vā́ryam ||
With you, O hero-force, may we become heroic and prevail over the fighters; pour out upon us the choicest treasure—what must be won by the soul.
त्वया॑ । वी॒रेण॑ । वी॒र॒ऽवः॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः । क्षर॑ । नः॒ । अ॒भि । वार्य॑म् ॥त्वया । वीरेण । वीरवः । अभि । स्याम । पृतन्यतः । क्षर । नः । अभि । वार्यम् ॥tvayā | vīreṇa | vīra-vaḥ | abhi | syāma | pṛtanyataḥ | kṣara | naḥ | abhi | vāryam