Sukta 9.31
तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् । वर्षिष्ठे अधि सानवि ॥
तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् । वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥
túbhyaṃ gā́vo ghṛtáṃ páyo bábhro duduhré ákṣitam | várṣiṣṭhe ádhi sā́navi ||
For you the cows of light milk out ghee and milk—O tawny one—an inexhaustible abundance, upon the most raining summit of the being.
तुभ्य॑म् । गावः॑ । घृ॒तम् । पयः॑ । बभ्रो॒ इति॑ । दु॒दु॒ह्रे । अक्षि॑तम् । वर्षि॑ष्ठे । अधि॑ । सान॑वि ॥तुभ्यम् । गावः । घृतम् । पयः । बभ्रो इति । दुदुह्रे । अक्षितम् । वर्षिष्ठे । अधि । सानवि ॥tubhyam | gāvaḥ | ghṛtam | payaḥ | babhro iti | duduhre | akṣitam | varṣiṣṭhe | adhi | sānavi