Sukta 9.31
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥
ā́ pyāyasva sámetu te viśvátas sóma vṛ́ṣṇyam | bhávā vā́jasya saṃgathé ||
Grow full, O Soma; let your virile strength gather to you from every side. Become present in the meeting-place of the plenitude of force.
आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् । भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् । भव । वाजस्य । सम्गथे ॥ā | pyāyasva | sam | etu | te | viśvataḥ | soma | vṛṣṇyam | bhava | vājasya | sam-gathe