Sukta 9.31
स्वायुधस्य ते सतो भुवनस्य पते वयम् । इन्दो सखित्वमुश्मसि ॥
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्दो॑ सखि॒त्वमु॑श्मसि ॥
sv-āyudhásya te sató bhúvanasya pate vayám | índo sakhitvám uśmasi ||
We desire friendship with you, O Indu—lord of becoming—who are real and armed with your own power: be our ally in the work of the worlds within us.
सु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् । इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥सुआयुधस्य । ते । सतः । भुवनस्य । पते । वयम् । इन्दो इति । सखित्वम् । उश्मसि ॥su-āyudhasya | te | sataḥ | bhuvanasya | pate | vayam | indo iti | sakhi-tvam | uśmasi