Sukta 9.31
तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः । सोम वर्धन्ति ते महः ॥
तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः । सोम॒ वर्ध॑न्ति ते॒ मह॑: ॥
túbhyaṃ vātā́ abhi-príyas túbhyam arṣanti síndhavaḥ | sóma várdhanti te máhaḥ ||
To you the winds move in glad attraction; to you the rivers flow—O Soma; they increase your greatness, the vastness of your effective being.
तुभ्य॑म् । वाताः॑ । अ॒भि॒ऽप्रियः॑ । तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । सोम॑ । वर्ध॑न्ति । ते॒ । महः॑ ॥तुभ्यम् । वाताः । अभिप्रियः । तुभ्यम् । अर्षन्ति । सिन्धवः । सोम । वर्धन्ति । ते । महः ॥tubhyam | vātāḥ | abhi-priyaḥ | tubhyam | arṣanti | sindhavaḥ | soma | vardhanti | te | mahaḥ