Sukta 9.31
दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । भवा वाजानां पतिः ॥
दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पति॑: ॥
divás pṛthivyā́ ádhi bhávendo dyumná-vardhanaḥ | bhávā vājā́nāṃ pátiḥ ||
Be over heaven and earth, O Indu—an increaser of luminous power; become the lord of the plenitudes of force that win the soul’s advance.
दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः । भव॑ । वाजा॑नाम् । पतिः॑ ॥दिवः । पृथिव्याः । अधि । भव । इन्दो इति । द्युम्नवर्धनः । भव । वाजानाम् । पतिः ॥divaḥ | pṛthivyāḥ | adhi | bhava | indo iti | dyumna-vardhanaḥ | bhava | vājānām | patiḥ