Sukta 9.31
प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । रयिं कृण्वन्ति चेतनम् ॥
प्र सोमा॑सः स्वा॒ध्य१॒॑: पव॑मानासो अक्रमुः । र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥
prá sómāsaḥ svādhyàḥ pávamānāso akramuḥ | rayíṃ kṛṇvanti cétanam ||
Forth go the self-mastered Somās, the purifying streams; they advance and make for us a wealth that is conscious—richness that awakens the being.
प्र । सोमा॑सः । स्वा॒ध्यः॑ । पव॑मानासः । अ॒क्र॒मुः॒ । र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत॑नम् ॥प्र । सोमासः । स्वाध्यः । पवमानासः । अक्रमुः । रयिम् । कृण्वन्ति । चेतनम् ॥pra | somāsaḥ | svādhyaḥ | pavamānāsaḥ | akramuḥ | rayim | kṛṇvanti | cetanam