Sukta 9.30
प्र सोमो अति धारया पवमानो असिष्यदत् । अभि द्रोणान्यासदम् ॥
प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् । अ॒भि द्रोणा॑न्या॒सद॑म् ॥
prá somó áti dhā́rayā pávamāno asisyadat | abhí droṇā́ny āsádam ||
Soma, purifying, surges forward beyond the stream; he presses on toward the vats, taking his seat—establishing the clarified delight in its prepared receptacles within us.
प्र । सोमः॑ । अति॑ । धार॑या । पव॑मानः । अ॒सि॒स्य॒द॒त् । अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥प्र । सोमः । अति । धारया । पवमानः । असिस्यदत् । अभि । द्रोणानि । आसदम् ॥pra | somaḥ | ati | dhārayā | pavamānaḥ | asisyadat | abhi | droṇāni | āsadam