Sukta 9.3
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति ॥
ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्य॑: सु॒तः । हरि॑: प॒वित्रे॑ अर्षति ॥
eṣá pratnéna jánmanā devó devébhyāḥ sutáḥ | háriḥ pavítre arṣati ||
This god, by his ancient birth, pressed out for the gods, the tawny one streams in the purifier.
ए॒षः । प्र॒त्नेन॑ । जन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । सु॒तः । हरिः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवित्रे । अर्षति ॥eṣaḥ | pratnena | janmanā | devaḥ | devebhyaḥ | sutaḥ | hariḥ | pavitre | aṣarti