Sukta 9.3
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः । धारया पवते सुतः ॥
ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निष॑: । धार॑या पवते सु॒तः ॥
eṣá u syá puruvrató jajñāno janáyann íṣaḥ | dhā́rayā pavate sutáḥ ||
This indeed, of many workings, being born, brings forth the impulsions; pressed out, he flows in a stream, self-purifying.
ए॒षः । ऊँ॒ इति॑ । स्यः । पु॒रु॒ऽव्र॒तः । ज॒ज्ञा॒नः । ज॒नय॑न् । इषः॑ । धार॑या । प॒व॒ते॒ । सु॒तः ॥एषः । ऊँ इति । स्यः । पुरुव्रतः । जज्ञानः । जनयन् । इषः । धारया । पवते । सुतः ॥eṣaḥ | oṃ iti | syaḥ | puru-vrataḥ | jajñānaḥ | janayan | iṣaḥ | dhārayā | pavate | sutaḥ