Sukta 9.3
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः । पवमानः स्वध्वरः ॥
ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः । पव॑मानः स्वध्व॒रः ॥
eṣá dívam vy ā́sarat tiró rájāṃsy áspr̥taḥ | pávamānaḥ svadhvaráḥ ||
This self-purifying one has flowed out toward heaven, across the regions untouched; he is the one of the true and self-moving sacrifice.
ए॒षः । दिव॑म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां॑सि । अस्पृ॑तः । पव॑मानः । सु॒ऽअ॒ध्व॒रः ॥एषः । दिवम् । वि । आ । असरत् । तिरः । रजांसि । अस्पृतः । पवमानः । सुअध्वरः ॥eṣaḥ | divam | vi | ā | asarat | tiraḥ | rajāṃsi | aspṛtaḥ | pavamānaḥ | su-adhvaraḥ