Sukta 9.3
एष दिवं वि धावति तिरो रजांसि धारया । पवमानः कनिक्रदत् ॥
ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या । पव॑मान॒: कनि॑क्रदत् ॥
eṣá dívam ví dhāvati tiró rájāṃsi dhā́rayā | pávamānaḥ kaníkradat ||
This self-purifying one runs out toward heaven, across the mid-regions in his stream; he cries aloud in his forward rush.
ए॒षः । दिव॑म् । वि । धा॒व॒ति॒ । ति॒रः । रजां॑सि । धार॑या । पव॑मानः । कनि॑क्रदत् ॥एषः । दिवम् । वि । धावति । तिरः । रजांसि । धारया । पवमानः । कनिक्रदत् ॥eṣaḥ | divam | vi | dhāvati | tiraḥ | rajāṃsi | dhārayā | pavamānaḥ | kanikradat