Sukta 9.3
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते । दधद्रत्नानि दाशुषे ॥
ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
eṣá vipráir abhíṣṭuto ’pó devó ví gāhate | dádhad rátnāni dāśúṣe ||
This god, praised by the seers, plunges into the waters; bearing the treasures, he gives them to the giver.
ए॒षः । विप्रैः॑ । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ । दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥एषः । विप्रैः । अभिस्तुतः । अपः । देवः । वि । गाहते । दधत् । रत्नानि । दाशुषे ॥eṣaḥ | vipraiḥ | abhi-stutaḥ | apaḥ | devaḥ | vi | gāhate | dadhat | ratnāni | dāśuṣe