Sukta 9.3
एष देवो रथर्यति पवमानो दशस्यति । आविष्कृणोति वग्वनुम् ॥
ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति । आ॒विष्कृ॑णोति वग्व॒नुम् ॥
eṣá devó ratharyati pávamāno daśasyati | āvíṣ kṛṇoti vagvanúm ||
This god, self-purifying, moves as on a chariot and wins homage; he makes manifest the inspired singer.
ए॒षः । दे॒वः । र॒थ॒र्य॒ति॒ । पव॑मानः । द॒श॒स्य॒ति॒ । आ॒विः । कृ॒णो॒ति॒ । व॒ग्व॒नुम् ॥एषः । देवः । रथर्यति । पवमानः । दशस्यति । आविः । कृणोति । वग्वनुम् ॥eṣaḥ | devaḥ | ratharyati | pavamānaḥ | daśasyati | āviḥ | kṛṇoti | vagvanum