Sukta 9.3
एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥
ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः । पव॑मानः सिषासति ॥
eṣá víśvāni vā́ryā śū́ro yánn iva sátvabhiḥ | pávamānaḥ sisāsati ||
This hero, self-purifying, strives toward all desirable treasures, as if driving forward with his powers of being.
ए॒षः । विश्वा॑नि । वार्या॑ । शूरः॑ । यन्ऽइ॑व । सत्व॑ऽभिः । पव॑मानः । सि॒सा॒स॒ति॒ ॥एषः । विश्वानि । वार्या । शूरः । यन्इव । सत्वभिः । पवमानः । सिसासति ॥eṣaḥ | viśvāni | vāryā | śūraḥ | yan-iva | satva-bhiḥ | pavamānaḥ | sisāsati