Sukta 9.28
एष सूर्यमरोचयत्पवमानो विचर्षणिः । विश्वा धामानि विश्ववित् ॥
ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः । विश्वा॒ धामा॑नि विश्व॒वित् ॥
eṣá sū́ryam arocayat pávamāno vícarṣaṇiḥ | víśvā dhā́māni viśvá-vit ||
This Soma, while purifying, has made the Sun shine out; wide in his vision and movement among men, the knower of all enters and illumines all the domains of our being.
ए॒षः । सूर्य॑म् । अ॒रो॒च॒य॒त् । पव॑मानः । विऽच॑र्षणिः । विश्वा॑ । धामा॑नि । वि॒श्व॒ऽवित् ॥एषः । सूर्यम् । अरोचयत् । पवमानः । विचर्षणिः । विश्वा । धामानि । विश्ववित् ॥eṣaḥ | sūryam | arocayat | pavamānaḥ | vi-carṣaṇiḥ | viśvā | dhāmāni | viśva-vit