Sukta 9.28
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । अभि द्रोणानि धावति ॥
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः । अ॒भि द्रोणा॑नि धावति ॥
eṣá vṛ́ṣā kánikradad daśábhīr jāmíbhir yatáḥ | abhí dróṇāni dhāvati ||
This Bull-force bellows as he is urged on by the ten kindred powers; he runs toward the vessels, filling the prepared receptacles of the being.
ए॒षः । वृषा॑ । कनि॑क्रदत् । द॒शऽभिः॑ । जा॒मिऽभिः॑ । य॒तः । अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ॥एषः । वृषा । कनिक्रदत् । दशभिः । जामिभिः । यतः । अभि । द्रोणानि । धावति ॥eṣaḥ | vṛṣā | kanikradat | daśa-bhiḥ | jāmi-bhiḥ | yataḥ | abhi | droṇāni | dhāvati