Sukta 9.27
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदस्तृतः ॥
ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः । इन्दु॑: सत्रा॒जिदस्तृ॑तः ॥
eṣá gavyúr acikradat pávamāno hiraṇyá-yuḥ | índuḥ satrā́-jid ástṛtaḥ ||
This purifying Indu cries out as the seeker of the luminous herds; yearning for the golden light, he is the unfailing conqueror in the continuous battle.
ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव॑मानः । हि॒र॒ण्य॒ऽयुः । इन्दुः॑ । स॒त्रा॒ऽजित् । अस्तृ॑तः ॥एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्ययुः । इन्दुः । सत्राजित् । अस्तृतः ॥eṣaḥ | gavyuḥ | acikradat | pavamānaḥ | hiraṇya-yuḥ | induḥ | satrājit | astṛtaḥ