Sukta 9.27
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित् ॥
ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः । सोमो॒ वने॑षु विश्व॒वित् ॥
eṣa nṛbhir ví nīyate divó mūrdhā vṛ́ṣā sutáḥ | sómo váneṣu viśvá-vit ||
This Soma, pressed out as the Bull-force, is led forth by the human powers; he becomes the head and summit of the heaven within, and in the inner forests of our being he is the knower and finder of all.
ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः । सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥एषः । नृभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः । सोमः । वनेषु । विश्ववित् ॥eṣaḥ | nṛ-bhiḥ | vi | nīyate | divaḥ | mūrdhā | vṛṣā | sutaḥ | somaḥ | vaneṣu | viśva-vit